Share

अर्जुनकृतं शिवस्तोत्रम्

by Swar Sanatan · August 23, 2025

अर्जुनकृतं शिवस्तोत्रम्

अर्जुन उवाच ।


नमस्ते देवदेवाय नमः कैलासवासिने ।
सदाशिव नमस्तुभ्यं पञ्चवक्त्राय ते नमः ॥ ३४॥

कपर्दिने नमस्तुभ्यं त्रिनेत्राय नमोऽस्तु ते ।
मनः प्रसन्नरूपाय सहस्रवदनाय च ॥ ३५॥

नीलकण्ठ नमस्तेऽस्तु सद्योजाताय वै नमः ।
वृषध्वज नमस्तेऽस्तु वामाङ्गगिरिजाय च ॥ ३६॥

दशदोष नमस्तुभ्यन्नमस्ते परमात्मने ।
डमरुकपालहस्ताय नमस्ते मुण्डमालिने ॥ ३७॥

शुद्धस्फटिकसङ्काश शुद्धकर्पूरवर्ष्मणे ।
पिनाकपाणये तुभ्यं त्रिशूलवरधारिणे ॥ ३८॥

व्याघ्रचर्मोत्तरीयाय गजाम्बरविधारिणे ।
नागाङ्गाय नमस्तुभ्यं गङ्गाधर नमोऽस्तु ते ॥ ३९॥

सुपादाय नमस्तेऽस्तु आरक्तचरणाय च ।
नन्द्यादिगणसेव्याय गणेशाय च ते नमः ॥ ४०॥

नमो गणेशरूपाय कार्तिकेयानुगाय च ।
भक्तिदाय च भक्तानां मुक्तिदाय नमो नमः ॥ ४१॥

अगुणाय नमस्तेऽस्तु सगुणाय नमो नमः ।
अरूपाय सरूपाय सकलायाकलाय च ॥ ४२॥

नमः किरातरूपाय मदनुग्रहकारिणे ।
युद्धप्रियाय वीराणां नानालीलानुकारिणे ॥ ४३॥

यत्किञ्चिद्दृश्यते रूपं तत्तेजस्तावकं स्मृतम् ।
चिद्रूपस्त्वं त्रिलोकेषु रमसेऽन्वयभेदतः ॥ ४४॥

गुणानां ते न सङ्ख्यास्ति यथा भूरजसामिह ।
आकाशे तारकाणां हि कणानां वृष्ट्यपामपि ॥ ४५॥

न ते गुणास्तु सङ्ख्यातुं वेदा वै सम्भवन्ति हि ।
मन्दबुद्धिरहं नाथ वर्णयामि कथं पुनः ॥ ४६॥

सोऽसि योऽसि नमस्तेऽस्तु कृपां कर्तुमिहार्हसि ।
दासोऽहं ते महेशान स्वामी त्वं मे महेश्वर ॥ ४७॥

इति शिवपुराणे शतरुद्रसंहितायां एकचत्वारिंशा- ध्ययान्तर्गतं
अर्जुनकृतं शिवस्तोत्रं समाप्तम् ।

शिवपुराण । शतरुद्रसंहिता । अध्याय ४१/३४-४७॥

You may also like