Share

अष्टमूर्तिस्तुतिः

by Swar Sanatan · August 23, 2025

अष्टमूर्तिस्तुतिः

क्षितिमूर्ते नमस्तुभ्यं जाता निक्षिति कर्मसु ।
मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ १॥

जलमूर्ते नमस्तुभ्यं जाता निजलकर्मसु ।
मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ २॥

वह्निमूर्ते नमस्तुभ्यं जाता निवह्नि कर्मसु ।
मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ ३॥

वायुमूर्ते नमस्तुभ्यं जाता निस्पर्श कर्मसु ।
मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ ४॥

व्योममूर्ते नमस्तुभ्यं जाता निव्योम कर्मसु ।
मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ ५॥

चन्द्रमूर्ते नमस्तुभ्यं जाता निस्वान्त कर्मसु ।
मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ ६॥

सूर्यमूर्ते नमस्तुभ्यं जाता निदृश्य कर्मसु ।
मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ ७॥

यष्टृमूर्ते नमस्तुभ्यं जाता नियम्य कर्मसु ।
मयितिष्ठन्ति पापानि तानि नाशय शङ्कर ॥ ८॥

अष्टमूर्तेस्स्तुतिमिमां यः पठेच्छिवसन्निधौ ।
किल्बिषादखिलान्मुक्तस्स्वर्गं मोक्षञ्चविन्दति ॥ ९॥

इत्यष्टमूर्ति स्तुतिः ॥

You may also like