Share

कालपुरुषकृतं श्रीकृष्णस्तोत्रम्

by Vaidik Marg · August 24, 2025

कालपुरुषकृतं श्रीकृष्णस्तोत्रम्

कालपुरुष उवाच ।
को वाऽहं को यमः का च मृत्युकन्या च व्याधयः ।
वयं भ्रमामः सततमीशाज्ञापरिपालकाः ॥ ४३॥

यस्य सृष्टा च प्रकृतिर्ब्रह्मविष्णुशिवादयः ।
सुरा मुनीन्द्रा मनवो मानवाः सर्वजन्तवः ॥ ४४॥

ध्यायन्ते तत्पदाम्भोजं योगिनश्च विचक्षणाः ।
जपन्ति शश्वन्नामानि पुण्यानि परमात्मनः ॥ ४५॥

यद्भयाद्वाति वातोऽयं सूर्यस्तपति यद्भयात् ।
स्रष्टा ब्रह्माऽऽज्ञया यस्य पाता विष्णुर्यदाज्ञया ॥ ४६॥

संहर्त्ता शङ्करः सर्वजगतां यस्य शासनात् ।
धर्मश्च कर्मणां साक्षी यस्याज्ञापरिपालकः ॥ ४७॥

राशिचक्रं ग्रहाः सर्वे भ्रमन्ति यस्य शासनात् ।
दिगीशाश्चैव दिक्पाला यस्याज्ञापरिपालकाः ॥ ४८॥

यस्याज्ञया च तरवः पुष्पाणि च फलानि च ।
बिभ्रत्येव ददत्येव काले मालावतीसति ॥ ४९॥

यस्याज्ञया जलाधारा सर्वाधारा वसुन्धरा ।
क्षमावती पृथिवी कम्पिता न भयेन च ॥ ५०॥

सहसा मोहिता माया मायया यस्य सन्ततम् ।
सर्वप्रसूर्या प्रकृतिः सा भीता यद्भयादहो ॥ ५१॥

यस्यान्तं न विदुर्वेदा वस्तूनां भावगा अपि ।
पुराणानि च सर्वाणि यस्यैव स्तुतिपाठकाः ॥ ५२॥

यस्य नाम विधिर्विष्णुः सेवते सुमहान्विराट् ।
षोडशांशो भगवतः स एव तेजसो विभोः ॥ ५३॥

सर्वेश्वरः कालकालो मृत्योर्मृत्युः परात्परः ।
सर्वविघ्नविनाशाय तं कृष्णं परिचिन्तय ॥ ५४॥

सर्वाभीष्टं च भर्त्तारं प्रदास्यति कृपानिधिः ।
इमे यत्प्रेरिताः सर्वे स दाता सर्वसम्पदाम् ॥ ५५॥

इति ब्रह्मवैवर्तपहराणे ब्रह्मखण्डे पञ्चदशाध्यायान्तर्गतं
कालपुरुषकृतं श्रीकृष्णस्तोत्रं समाप्तम् ।

You may also like