Share

ब्रह्मकृतं श्रीकृष्णस्तोत्रम्

by Vaidik Marg · August 24, 2025

ब्रह्मकृतं श्रीकृष्णस्तोत्रम्

ब्रह्मोवाच ।
सर्वस्वरूपं सर्वेशं सर्वकारणकारणम् ।
सर्वानिर्वचनीयं तं नमामि शिवरूपिणम् ॥ ३७॥

नवीनजलदाकारं श्यामसुन्दरविग्रहम् ।
स्थितं जन्तुषु सर्वेषु निर्लिप्तं साक्षिरूपिणम् ॥ ३८॥

स्वात्मारामं पूर्णकामं जगद्व्यापिजगत्परम् ।
सर्वस्वरूपं सर्वेषां बीजरूपं सनातनम् ॥ ३९॥

सर्वाधारं सर्ववरं सर्वशक्तिसमन्वितम् ।
सर्वाराध्यं सर्वगुरुं सर्वमङ्गलकारणम् ॥ ४०॥

सर्वमन्त्रस्वरूपं च सर्वसम्पत्करं वरम् ।
शक्तियुक्तमयुक्तं च स्तौमि स्वेच्छामयं विभुम् ॥ ४१॥

शक्तीशं शक्तिबीजं च शक्तिरूपधरं वरम् ।
संसारसागरे घोरे शक्तिनौकासमन्वितम् ॥ ४२॥

कृपालुं कर्णधारं च नमामि भक्तवत्सलम् ।
आत्मस्वरूपमेकान्तं लिप्तं निर्लिप्तमेव च ॥ ४३॥

सगुणं निर्गुणं ब्रह्म स्तौमि स्वेच्छास्वरूपिणम् ।
सर्वेन्द्रियादिदेवं तमिन्द्रियालयमेव च ॥ ४४॥

सर्वेन्द्रियस्वरूपं च विराड्रूपं नमाम्यहम् ।
वेदं च वेदजनकं सर्ववेदाङ्गरूपिणम् ॥ ४५॥

सर्वमन्तस्वरूपं च नमामि परमेश्वरम् ।
सारात्सारतरं द्रव्यमपूर्वमनिरूपिणम् ॥ ४६॥

स्वतन्त्रमस्वतन्त्रं च यशोदानन्दनं भजे ।
सन्तं सर्वशरीरेषु तमदृष्टमनूहकम् ॥ ४७॥

ध्यानासाध्यं विद्यमानं योगीन्द्राणां गुरुं भजे ।
रासमण्डलमध्यस्थं रासोल्लाससमुत्सुकम् ॥ ४८॥

गोपीभिः सेव्यमानं च तं धरेशं नमाम्यहम् ।
सतां सदैव सन्तं तमसन्तमसतामपि ॥ ४९॥

योगीशं योगसाध्यं च नमामि शिवसेवितम् ।
मन्त्रबीजं मन्त्रराजं मन्त्रदं फलदं फलम् ॥ ५०॥

मन्त्रसिद्धिस्वरूपं तं नमामि च परात्परम् ।
सुखं दुःखं च सुखदं दुःखदं पुण्यमेव च ॥ ५१॥

पुण्यप्रदं च शुभदं शुभबीजं नमाम्यहम् ।
इत्येवं स्तवनं कृत्वा दत्त्वा गाश्च स बालकान् ॥ ९२॥

निपत्य दण्डवद्भूमौ रुरोद प्रणनाम च ।
ददर्श चक्षुरुन्मील्य विधाता जगतां मुने ॥ ५३॥

ब्रह्मणा च कृतं स्तोत्रं नित्यं भक्त्या च यः पठेत् ।
इह लोके सुखं भुक्त्वा यात्यन्ते श्रीहरेः पदम् ॥ ५४॥

लभते दास्यमतुलं स्थानमीश्वरसन्निधौ ।
लब्ध्वा च कृष्णसान्निध्यं पार्षदप्रवरो भवेत् ॥ ५५॥

इति श्रीब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे पूर्वे विंशाध्यायान्तर्गतं
ब्रह्मकृतं श्रीकृष्णस्तोत्रं समाप्तम् ।

You may also like