Share

महारुद्रस्तोत्रम्

by Vaidik Marg · August 24, 2025

महारुद्रस्तोत्रम्


वाण्या ॐङ्काररूपिण्या अन्त उक्तोऽस्य नान्यथा ।
सुरस्त्रिभुवनेशः स नः सर्वान्तःस्थितोऽवतु ॥ १॥

देवोऽयं सर्वदेवाद्यः सूरिरुन्मत्तवत्स्थितः ।
वाहो बलीवर्दकोऽस्य याञ्चकस्येष्टदः स तु ॥ २॥

नन्दिस्कन्धाधिरूढोऽपि त्रिप्रमित्यतिगः स्वभूः ।
दशा यस्य न शम्भुं तं सन्तं वन्देऽखिलात्मकम् ॥ ३॥

सद्योजातोऽष्टमूर्तिः स भूतवन्दिस्तुतो जितः ।
रक्ष मन्मथहन्नाथ तोकधर्माणमद्य माम् ॥ ४॥

स्वतो हेतोर्जगद्धेतो दयानाथाम्बिकापते ।
तीव्रासुहृत्त्रिविधहृत्तापान्मृत्योश्च मामव ॥ ५॥

कृतागसमपि त्राह्यत्रेर्मृत्योस्त्वं च भिषक्तमः ।
तत्सन्धिं भिन्धि सर्वाकयोनेर्मुञ्चस्व मां शिव ॥ ६॥

श्रीद पुष्टिद ते व्याप्तं दिक्षु क्षीरनिभं यशः ।
रुङ्मार्ष्टिकृद्रक्ष मां त्वं गङ्गा यन्मूर्ध्नि चर्क्षराट् ॥ ७॥

द्रष्टा वसति सर्वत्र बत मामीक्षसे न किम् ।
स्तुतेर्धर्मेशशक्तिर्निरस्तमृत्योनमेजते ॥ ८॥

तिष्ठानन्दद चित्ते मे समन्तात् परिपालय ॥ ९॥

इति श्रीवासुदेवानन्दसरस्वतीविरचितं महाख्यस्तोत्रं सम्पूर्णम् ॥

You may also like