
श्रीरामस्तवराजः
श्रीरामचन्द्रं नयनाभिरामं राजीवनेत्रं जनकात्मजेशम् ।
अनन्तलावण्यगुणैकधाम स्वकीयचित्ते नितरां स्मरामि ॥ १॥
वातात्मजाऽऽराधितपादपद्मं नित्यं प्रसन्नं बुधवृन्दवन्द्यम् ।
अशेषदेवैः समुपासनीयं श्रीरामचन्द्रं हृदि भावयामि ॥ २॥
दिव्यामयोध्यां नगरीमवाप्य प्रसन्नचित्तं परमं परेशम् ।
धनुर्धरेशं स्मरकोटिरूपं श्रीरामचन्द्रं सततं भजेऽहम् ॥ ३॥
अतीवरम्यं सरयूप्रतीरे श्रीसीतया सार्द्धमसीमशोभम् ।
आनन्दसिन्धुं भरतादिसेव्यं रामं रमेशं प्रणमामि नित्यम् ॥ ४॥
श्रीलक्ष्मणेनाऽर्चितपादपद्मं ब्रह्मेश-देवेन्द्र-गणेशगेयम् ।
असीमकारुण्यदयैककोषं रामं सदा दाशरथिं भजेऽहम् ॥ ५॥
वेदादिशास्त्रैरुपगीयमानं पुराण-तन्त्रैः परिवर्णितञ्च ।
रामायणाद्यै र्नितरां प्रगेयं श्रीराघवेन्द्रं मनसा भजामि ॥ ६॥
सरोजमालारुचिरं शरण्यं कारुण्यरूपं भवमूलबीजम् ।
अनन्यभक्तैः समुपासनीयं श्रीराघवं नौमि नवाम्बुदाभम् ॥ ७॥
सुरेन्द्रवृन्दारकवृन्दवन्द्यं वेदादिशास्त्रोक्तिचयैरगम्यम् ।
कराब्जचापं कमनीयकेशं रामं सदैव मनसाभिवादये ॥ ८॥
कपीन्द्रहस्ताम्बुजदिव्यसेवा-शुद्धानुरागाऽधिकमोदमानम् ।
परात्परं श्रीरघुवंशनाथं रामं स्मरामीह नितान्तहृद्यम् ॥ ९॥
श्रीरामभद्रं रसिकैः समर्च्यं मुक्ता-प्रवालादिकमाल्यकण्ठम् ।
शास्त्रीयसिद्धान्तधरं रसेशं सनातनं पूर्णतमं नतोऽस्मि ॥ १०॥
प्रपन्नभक्तेषु दयाऽऽर्द्रदृष्टिमनाथनाथ प्रियकेशपाशम् ।
भवाटवीभीषणदह्यमान-रक्षापरं राममहो नमामि ॥ ११॥
गोदानदक्षं यजने प्रवीणं गो-विप्ररक्षानिरतं सदैव ।
शेषावतारेण सहातिरम्यं राजेशरामं प्रणतोऽस्मि नित्यम् ॥ १२॥
कृपा-दयाकोषमशेषशक्ति-माचारपूर्णं श्रुतिसारसारम् ।
सङ्कल्पमात्रेण तनोति विश्वं तं रामचन्द्रं हृदि भावयामि ॥ १३॥
विशालभालं तिलकाङ्कितञ्च वृन्दादलाऽर्च्यं भजनीयरूपम् ।
निशाचराणां निकरप्रणाशे सिद्धं प्रसिद्धं प्रणमामि रामम् ॥ १४॥
कौशेयवस्त्रं कमनीयकान्ति-माजानबाहुं वरणीयवृत्तिम् ।
स्मिताननं वीरवरं वरिष्ठं रामं भजेऽहं मनसा गिराऽपि ॥ १५॥
शरणागत भक्तों पर दयापूर्ण दृष्टि है जिनकी एवं सुन्दर
ससैन्यलङ्केशनिरासकारं जटायुनिष्ठाऽधिकलब्धहर्षम् ।
विभीषणप्रश्रयदानदक्षं रामं ससीतं हृदि धारयामि ॥ १६॥
निशाचराऽऽतङ्कनिरोधकारं ऋषीशरक्षार्थवनप्रवासम् ।
भवार्णवोत्तालतरङ्गव्यूह-निवारणोष्णं प्रभजामि रामम् ॥ १७॥
आकाशमार्गेण विमानमध्ये स्थित्वा स्वयोध्यां समुपाजगाम
लङ्काधराया सह पार्षदैस्तं श्रीरामचन्द्रं प्रणमामि देवम् ॥ १८॥
गाम्भीर्य-सौशील्यगुणैकसिन्धुं
श्रीजानकीदिव्यस्वरूपमञ्जुम् ।
साकेतलोके परिशोभमानं
रामं भजेऽहं सुख-शान्तिदायकम् ॥ १९॥
नौकाविहारं सरयूप्रवाहे कुर्वन्तमीशं सह सीतया वै ।
स्वपार्षदोपासनफुल्लचित्तं रामं सदा चारुतमं स्मरामि ॥ २०॥
अमन्दमेधाबलदानशीलं स्वच्छन्दरूपेण विहारमग्नम् ।
सरोजमालाविलसत्स्वरूपं रामं रसेशं सुखदं नतोऽस्मि ॥ २१॥
सङ्कल्पसिद्धं रसकेन्द्रमूलं विराड्भवोत्पादनमुख्यहेतुम् ।
नवीननीलाम्बुददिव्यगात्रं रामं सदाऽहं मनसा नमामि ॥ २२॥
भजे स्मिताऽऽस्यं रमणीयरामं स्वाचारनिष्ठं यजने वरिष्ठम् ।
गोरक्षणे नित्यसुबद्धकक्षं शत्रुघ्नसेव्यं रघुनन्दनञ्च ॥ २३॥
मुक्ताप्रवालादिकरत्नदिव्य-सुवर्णपीताभरथस्थरामं
अतीवशोभायुतचारुचापं सीतायुतं नौमि कपीशवन्द्यम् ॥ २४॥
सदा स्मरामि प्रभजामि रामं ब्रह्माण्डसर्वस्वसमाश्रयं तम् ।
रसार्णवं वैदिकवर्ण्यरूपं प्राज्ञैरुपास्यं व्रत-तीर्थनिष्ठम् ॥ २५॥
श्रीरामस्तवराजोऽयं रामभक्ति प्रदायकः ।
राधासर्वेश्वराद्येन शरणान्तेन निर्मितः ॥ २६॥
