
श्रीशिवाष्टकम्
सदा निर्विकल्पं सदा चित्स्वरूपं
सदा सत्स्वरूपं सदाऽनन्दरूपम् ।
सदा पूर्णरूपं सदा नित्यरूपं
सदैकस्वरूपं शिवं त्वां नमामि ॥ १॥
सदा निर्गुणं सद्गुणं वा सदैव
सदाऽनन्तरूपं च एकं सदैव ।
सदा शान्तरूपं च शुभ्रं सदैव
सदैकस्वरूपं शिवं त्वां नमामि ॥ २॥
सदा ज्ञानिनां ज्ञानरूपं त्वमेव
सदा योगिनां ध्यानगम्यं त्वमेव ।
सदा प्राणिनां प्राणरूपं त्वमेव
सदैकस्वरूपं शिवं त्वां नमामि ॥ ३॥
सदा ब्रह्मणा प्रार्थनीयस्वरूपं
सदा विष्णुना वन्दनीयस्वरूपम् ।
सदा धामतत् चिद्घानानन्दरूपं
सदैकस्वरूपं शिवं त्वां नमामि ॥ ४॥
सदा वेदशास्त्रेण स्तुत्यं महेशं
सदा देवदेवादिदेवं महेशम् ।
सदा ब्रह्मसूत्रादिमृग्यं महेशं
सदैकस्वरूपं शिवं त्वां नमामि ॥ ५॥
सदा सृष्टिनां सर्जकं तं महेशं
सदा सृष्टिनां पालकं तं महेशम् ।
सदा सृष्टिनां नाशकं तं महेशं
सदैकस्वरूपं शिवं त्वां नमामि ॥ ६॥
सदा सर्वदा चिन्तनीयं महेशं
सदा सर्वदा वन्दनीयं महेशम् ।
सदा सर्वदा कीर्तनीयं महेशं
सदैकस्वरूपं शिवं त्वां नमामि ॥ ७॥
सदा शुद्ध बुद्धं सदा मुक्तरूपं
सदाऽनन्तमेकं सदा चित्स्वरूपम् ।
सदा सर्वदा निर्मलं नित्यरूपं
सदैकस्वरूपं शिवं त्वां नमामि ॥ ८॥
इदं शिवाष्टकं स्तोत्रं भक्ति श्रद्धासमन्वितः
निवेदयाम्यहं शम्भो प्रसन्नो भव सर्वदा ॥ ९॥
इति गायत्रीस्वरूप ब्रह्मचारीविरचितं श्रीशिवाष्टकं सम्पूर्णम् ।
