Share

सान्दीपनिकृतं श्रीकृष्णस्तोत्रम्

by Vaidik Marg · August 24, 2025

सान्दीपनिकृतं श्रीकृष्णस्तोत्रम्

सान्दीपनिरुवाच ।
परं ब्रह्म परं धाम परमीश परात्पर ।
स्वेच्छामयं स्वयञ्ज्योतिर्निलिप्तैको निरङ्कुशः ॥ ६॥

भक्तैकनाथ भक्तेष्ट भक्तानुग्रहविग्रह ।
भक्तवाञ्छाकल्पतरो भक्तानां प्राणवल्लभ ॥ ७॥

मायया बालरूपोऽसि ब्रह्मेशशेषवन्दितः ।
मायया भुवि भूपाल भुवो भारक्षयाय च ॥ ८॥

योगिनो यं विदन्त्येवं ब्रह्मज्योतिः सनातनम् ।
ध्यायन्ते भक्तनिवहा ज्योतिरभ्यन्तरे मुदा ॥ ९॥

द्विभुजं मुरलीहस्तं सुन्दरं श्यामरूपकम् ।
चन्दनोक्षितसर्वाङ्गं सस्मितं भक्तवत्सलम् ॥ १०॥

पीताम्बरधरं देवं वनमालाविभूषितम् ।
लीलापाङ्गतरङ्गैश्च निन्दितानङ्गमूर्च्छितम् ॥ ११॥

अलक्तभवनं तद्वत्पादपद्मं सुशोभनम् ।
कौस्तुभोद्भासिताङ्गं च दिव्यमूर्तिं मनोहरम् ॥ १२॥

ईषद्धास्यप्रसन्नं च सुवेषं प्रस्तुतं सुरैः ।
देवदेवं जगन्नाथं त्रैलोक्यमोहनं परम् ॥ १३॥

कोटिकन्दर्पलीलाभं कमनीयमनीश्वरम् ।
अमूल्यरत्ननिर्माणभूषणौघेन भूषितम् ॥ १४॥

वरं वरण्यं वरदं वरदानामभीप्सितम् ।
चतुर्णामपि वेदानां कारणानां च कारणम् ॥ १५॥

पाठार्थ मत्प्रियस्थानमागतोऽसि च मायया ।
पाठं ते लोकशिक्षार्थं रमणं गमनं रणम् ।
स्वात्मारामस्य च विभोः परिपूर्णतमस्य च ॥ १६॥

इति श्रीब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे उत्तरे
द्व्यधिकशाततमाध्यायान्तर्गतं सान्दीपनिकृतं
श्रीकृष्णस्तोत्रं समाप्तम् ।

You may also like