Share

श्रीशिवस्तोत्रम्

by Swar Sanatan · August 23, 2025

श्रीशिवस्तोत्रम्

जय जय शम्भो गिरिजाबन्धो शिव शिव शङ्कर भूतपते ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ १॥

शिव सुरनायक मङ्गलविग्रह कुरु कुरु मङ्गलमाशु विभो ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ २॥

शरणं यामश्चरणद्वन्द्वं तव (पद) यत् कमलापतिमृग्यं (वेलम्) ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ ३॥

तव पदकमलादमलादन्यच्चिन्तितमपि न हि चेतसि (शं)भो ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ ४॥

नामैवोत्तम तव पदममलं मङ्गलदायकमङ्गलदम् ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ ५॥

शिव वयमशिवं न भजामस्त्वयि सति सशिवे शिवमूर्तौ ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ ६॥

भगवन् भवता भवतापहृता न हृतं दुरितं किं नु कृतम् ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ ७॥

सकृदपि तव हर नामस्मरणं कृतमघकुलहरमतिशुभदम् ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ ८॥

स्मृतमपि तव हर चरणद्वन्द्वं हरति विषादं किमु दुष्टम् ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ ९॥

हर यद्यस्मत्कृतमपराधं विविधं कृपया हरसि तथा ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ १०॥

सुतमपराधिनमपि कृतशिक्ष जनकः पालयतीश यथा ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ ११॥

भवता सृष्टं जगदिव सृष्टानस्मानयि भव पालय नित्यम् ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ १२॥

जगतामेको जनकस्त्वमतो वयमपि जगतो न हि भिन्नाः ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ १३॥

न हि जानीमो भवदन्यं शङ्कर धीरं पातारम् ।
गिरिश महापजलधेरस्मानुद्धर धीर कृपाजलधे ॥ १४॥

देव गजासुरपरिहृतविभवानस्मान् (भयद) सभवानव सदय ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ १५॥

शरणं भव भव शरणं भव भव भव शरणं त्वं करुणाब्धे ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ १६॥

न सुता वयमपि तव किमु शम्भो जनको न भवानस्माकम् ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ १७॥

भवता सृष्टाः सकला लोका वयमपि तद्वद्धर सृष्टाः ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ १८॥

भव भवदन्यं न वयं यामः सकृदपि शरणं मरणे वा ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ १९॥

निरवधिकरुणापारावारस्त्वमतो हर हर भवदुःखम् ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ २०॥

भव भवदीयानस्माननिशं कुरु गतदुःखानतिदुःखान् ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ २१॥

॥ इति श्रीशिवस्तोत्रं सम्पूर्णम् ॥

You may also like