Share

श्रीकृष्णालहरी सार्था

by Vaidik Marg · August 24, 2025

श्रीकृष्णालहरी सार्था


चतुर्बाहुः श्रीमत्सजलजलदश्यामलतनुः
प्रकाशद्वक्त्रेन्दुः सदुडुगणमुक्तावलिरपि ।
तडिद्वासा भास्वत्सुतिलकलसन्मौलिरघहृत्
क्षमाध्यस्य ह्यत्रेरपि जयति सूनुः स्वहितकृत् ॥ १॥

अपि श्रीकृष्णे ते महिमपरपारं भजति को
न शेषोऽशेषास्यैरपि कथयितुं वा प्रभवति ।
अतो ह्यीतो वाचः शुचय इह वच्म्यल्पकमिदं
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ २॥

अलक्ष्यं ते रूपं वचनहृदयाध्वातिगमतो
नतोऽहं ते लक्ष्यं कथमपि च विज्ञाय वरदे ।
प्रवृत्तस्त्वां स्तोतुं स्वमतिगतितस्ते वरमुदे
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ ३॥

कृता साहित्यज्ञैरपि सुगुणसम्पत्सललिता
इमतार्थास्तानर्था न च तव मुदे सापि कविता ।
समर्थाथापि त्वं शिशुवचनवन्मे श‍ृणु मुदा
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ ४॥

रसज्ञा मे दत्ता मुनिनमितदत्तात्रजपदे
मुदे तस्यापीयं प्रभवति न किं साधुलहरी ।
हरीशात्मा कृष्णा यत इयमभूद्दत्तदयिता
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ ५॥

न च प्राज्यं राज्यं न च विबुधपूज्यं सुरपदं
पदं पूष्णो जिष्णोरपि मम न विष्णोरभिमतम् ।
मतं दत्तात्रेयप्रपदपरिपूतं तव तटं
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ ६॥

न भोगं नो योगं न च दुरितभङ्गं लषति मे
मनोऽरोगं गाङ्गं जलमपि न साङ्गं श्रुतिगणम् ।
न यागं न स्वर्गं तव सततयोगं लसति मे
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ ७॥

मनो मे श्रीकृष्णे त्वदपसरति क्वापि न कलौ
मलौघघ्नीतीघ्नी भवति भवतीहेति सततम् ।
सुविश्वस्तं स्रस्तं जगति गतिदे साधनचयान्न
मः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ ८॥

महाभङ्गा गङ्गा यदि दुरितभङ्गाऽत्र कथिता
मताऽपीह त्वत्तः कथमधिकतामेति विमता ।
हरेः साङ्घ्र्युद्भूता त्वमिह ननु मूर्ता परितनुर्न
मः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ ९॥

हरेर्गंङ्गाङ्घ्र्यब्जाभिनवबिसवल्ली भवतु वाऽ-
धितिष्ठत्वीट्शीर्षं स्रगिव च पताकेव सुतराम् ।
प्रकामं मुक्तेर्न त्वमिव भवति श्रीहरितनुर्न
मः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ १०॥

गते जीवे कन्यां जगति बहुमान्यां शिखरिणी-
ह सह्रे त्वां धन्या जननि भगिनीवामरसरित् ।
समागत्याप्यब्दं परमनियमात्तिष्ठति मुदा
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ ११॥

महाजम्बुद्वीपे वृजिनहरतीर्थानि वरदे
समायान्ति त्वान्तु त्रिविधमलदे तानि परदे ।
तदा त्वत्स्नानादेः फलमपि न वक्तुं प्रभुरजो
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ १२॥

पितॄनुद्दिश्यैको वितरति निवापाञ्जलिमये
मनुष्यस्त्वय्यग्रे सकलपितरोस्य द्रुतरये ।
गतिं यान्ति श्राद्धादपि च पुनरावृत्तिरहितां
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ १३॥

महापाप्याकल्पं यदि विधिवशाद्दुर्गतिमितो
वृषोत्सर्गात्सोऽपि द्रुतमिह हि नारायणबलेः ।
त्रिपिण्डीश्राद्धाद्वा व्रजति सुगतिं दुर्लभतरां
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ १४॥

सुतं लेभे वन्ध्या ऋणहतिमृणी दुःख्यपि सुखं
नरो यो यो यं यं स्मरति हृदि कामं स स च तम् ।
अवापेति ज्ञात्वा जननि पतितस्तेऽद्य पुरतो
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ १५॥

अहो माहात्म्यं ते शुकजनक आहात्र हि महा-
बलेशादासिन्धोरुभयतटसंस्थेषु बहुषु ।
महातीर्थेष्वग्र्यं नृहरिपुरि तीर्थाष्टकमिदं
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ १६॥

मुखं ते सह्याधः सदयहृदयं ते नरहरेः
पुरेऽप्यान्ध्रे नाभिः प्रपदयुगलं प्राच्यविषये ।
अये श्रीकृष्णे ते प्रथितमिह रूपं मुनिमते
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ १७॥

नरः श्रीकृष्णे ते सुलभममृतस्पर्धि मधुरं
वरं नाम ब्रूयात्कथमपि स निःश्रेयसमियात् ।
सुदूरस्थो स्वस्थोऽप्यथ किमुत साक्षाद्भजति यो
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ १८॥

पुरेष्टं दत्तं वा विहितमपि पूर्तं च सुकृतं
स्वधीतं वा जप्तं श्रुतमपि यशोऽजस्य हि तदा ।
भवद्दृष्टिः कृष्णे भवति भवभीहृत्खलु नृणां
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ १९॥

प्रकृत्यैक्याद्भेदो न हरिहरयोः प्रत्ययवशात्
पृथग्वद्भातीति प्रथयितुमहो शम्भुवपुषा ।
युता वेण्यापि त्वं भगवति पृथक्त्वं न भजसे
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ २०॥

अये योगिध्येये निगमगणगेयेऽब्धिनिलयेऽ
नपाये दत्ताये कलुषविलये सह्यतनये ।
त्वदन्यन्नो वीक्षे सुलभशरणं लीढमरणं
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ २१॥

परिक्रान्ता देशा भगवति चतस्रओऽपि च दिशा
न शान्ता दुष्टाशाप्यजनि वपुषो मेऽन्तिमदशा ।
प्रशान्ताद्यैवाशा तव दृशिवशादास सुदशा
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ २२॥

त्वदीये सत्तोये जलचरगणा ये गतभया
वयांसीशे वान्ये पशुमृगगणाः कीटकगणाः ।
अपि स्नाताः पीताः कथमपि ततस्ते दिवमिता
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ २३॥

गतः क्रूरो जारो दिवमपि च चोरो वनचरो
वरोदे ते स्नानात्कथमपि नरो यः श्रुतिपरः ।
स किं स्नानात्ते न व्रजति गतिमम्ब श्रुतमते
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ २४॥

अपि स्नातं तीर्थं सकलमखिलं दैवतमिहार्चितं
सर्वं दत्तं हुतमपि च पूर्तं खलु कृतम् ।
तव स्नातं मातर्विधिवदिह येनाम्बु सुगते
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ २५॥

अवज्ञातं तीर्थं सकलमपि देवा अवमता
न दत्तं मे नेष्टं मतमपि च पूर्तं किमपि नो ।
श्रितं त्वत्सामर्थ्यादरभरवशाद्देवि सरिते
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ २६॥

क्षमः कस्याप्यग्रे क्षणमपि न च स्थातुमभवे
भवेयं तूर्ध्वास्योभवमिह हि हास्यास्पदमतः ।
तवेयं लज्जास्तामपि सपदि मामुद्धर हिते
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ २७॥

त्वया प्रत्याख्यातो यदि भवति भीतोऽयमभवे
भवेदज्ञस्यास्य त्रिजगदुदरे किं नु शरणम् ।
रणन्नुच्चैरुच्चैस्तदिह मरणं यामि महिते
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ २८॥

महापापं तापं गतमपि सकम्पं गतकृपं
सशापं लोको मां हसतु तमु तापं न गणये ।
बिभेम्यंहोपाये तव बिरुदभङ्गाद्भगनुते
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ २९॥

त्रितापघ्नीतिघ्नी भुवि पतितपावन्यघहरा
त्रितापघ्नी भीघ्नी विविधवरदात्री ऋणहरा ।
वरा सिन्धुष्वेतद्बिरुदनिचयो जीवतु चिरम्
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ ३०॥

यदाऽस्याविर्भूता त्वमिह तत आरभ्य पतिता
विशोध्याप्युन्नीता अधिकतम एभ्योऽस्म्यत इमम् ।
यदोद्धर्तुं शक्ता त्वमसि तत उत्तिष्ठ सरिते
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ ३१॥

अयं सामान्योऽस्तीत्यपि मनसि मा स्थापय यतः
समस्ताघौघास्ते जननि मयि तिष्ठन्ति सुचिरम् ॥

अतो बद्ध्वोत्तिष्ठेश्वरि परिकरं त्वं दृढतरम्
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥

ममोद्धारेणाद्य त्रिजगति सुकीर्तिर्भवतु तेऽ-
सितेऽतीते काले न खलु विमले त्वीदृगभवत् ।
प्रसङ्गोऽसङ्गोऽहं तत उपरि यास्येऽभयपदं
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ ३३॥

अतः प्रादुर्भूत्वा परमनिजरूपेण सहसा
ममाघाद्रीन्भित्वा सकलमलहन्त्रीह सहसा ।
कृपाक्षीरं धृत्वाऽङ्कमुपरि च मे देहि सहसा
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ ३४॥

कुतस्त्वय्येतावद्दुरितमिति शङ्कास्तु न यतोऽ-
न्यथाऽऽत्मानं सन्तं तत इतरथा वेद्मि हि मया ।
निजात्मस्तेनेन प्रतिपदमघं किं न विहितं
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ ३५॥

समं साक्षात्पश्यस्यखिलहृदयस्थे भगवति
त्वदग्रे वक्तव्यं न हि न हि तथापीह वदति ।
प्रभोरग्रे लोकस्तदनुसरणं मेऽस्तु शरणं
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ ३६॥

स्वभूरूपेण त्वं सृजसि हरिधाम्नाऽवसि हरात्
मना हंसीन्द्राद्या विसृजसि विभूतीः स्वकलया ।
लयान्ते ते कुकिंष विशति सकले मङ्गलगते
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ ३७॥

इहापि त्वं पापिप्रचयमलसङ्क्षालनपटूदकात्
मा भूराभूरपि सुरगणाः शापमिषतः ।
स्वतन्त्रे सन्मन्त्रे सरित इह भूत्वा तव गता
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ ३८॥

तमोनुत्ते भासा जगति खलु भास्वान्न भवति
स्वयञ्ज्योतिः स त्वां तपनमिव भं भासयत इत् ।
अयं भातां त्वानु द्युमणिसहितं भाति सकलं
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ ३९॥

गणी वेणी भूत्वाऽप्यसुरसुरवारादृतपदो
मदोद्धृत्यै यद्दृग्भुवनजयिनोऽलं कुसुमगोः ।
स गोवाहोऽपि त्वां परमसखिवत्सङ्गत उतो
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ ४०॥

स्वयम्भूर्ब्रह्माऽयं भुवनरचनाभिज्ञधिषणः
कुकुद्मत्याख्याऽसौ सरिदिह हि भूत्वाऽपि सुतवत् ।
समायातस्त्वां सम्मुखमु करहाटाख्यविषये
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ ४१॥

द्विजाः काले काले शुचिषु च चतुर्भिः फलदृश-
श्चतुर्भिद्र्वाभ्यां पञ्चभिरपि बुधा जुह्वति सति ।
पुनद्र्वाभ्यां स्नानादपि नयसि नाकं त्वमखिलान्
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ ४२॥

प्रभावस्तेऽपीदृग्दहति दहनो वाति पवनो
मनोह्लादे भीतस्तपति तपनो धावति मृतिः ।
वृषा वर्षत्यन्ये त इह बलिमुझ्झन्ति नियतं
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ ४३॥

क्व शक्तिस्तेऽनन्ते विवधकुकृताद्रिप्रहरण-
क्षमा सामान्यं मे त्रिविधमपि पापं क्व नु कियत् ।
तवाग्रे वह्न्यग्रे विरसबहुशष्पाद्रिवदहो
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ ४४॥

न कृच्छ्राद्याः शक्ता यदघहरणायापि बहुशो
न च प्रायश्चित्तं हवनजपनाद्यं क्षममभूत् ।
स कृष्णे त्वत्स्नानाद्व्रजति सुशचिः सन्दिवमहो
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ ४५॥

कुसङ्गान्यात्र्यर्थापहरणमुखं कायिकमघं
हरेज्याऽऽर्योन्निन्दाकदशनमुखं वाचिकमघम् ।
कुचिन्ताऽन्यानर्थस्मरणमुखरं मानसमघं
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ ४६॥

स्वदीयात्मस्पृष्टः स्पृशतु गतिदे स्पर्शन उत
स्वदीयं पानीयं पततु वदनाब्जे मम बत ।
उताहो त्वन्नीरे तुहिनशिशिरेऽङ्ग पततु मे
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ ४७॥

नुतां तीर्थैः सर्वैरपि जगति सर्वाभिरमले
सरद्भिर्देवेन्द्रैरपि मुनिभिरत्यादृततटाम् ।
न कस्त्वां सेवेत प्रवरसरिदत्राधिमथने
नमः श्रीकृष्णे ते जय शमिततृष्णे गुरुमते ॥ ४८॥

धरेन्द्रतनयेऽभयेऽस्म्युपगतोऽनुकम्पोदये
जयेश्वरि हरीशरूपिणि मणिद्युते त्वाऽर्थये ।
अये नदि न दीनतां व्रजतु हृन्मदीयं स्वयेऽ-
क्षये वपुषि तेऽसिते भवतु दृक्त्वदीयेऽम्मये ॥ ४९॥

काचित्क्षालयति प्रभोः पदयुगं काचित्कमारोहति
स्वेदात्कापि जटादितः प्रकटिता बद्धाऽपरोद्वाहिता ।
उच्चैः काचन मानिनीह पतिता जाता गता काप्यध-
स्त्यक्तं ते न च नाम रूपमपि सत्कृष्णे दशायामिह ॥ ५०॥

(हारबन्धः)
देवेड्ये वेदवेद्ये जय जय भवहृत्त्वं कृपाकृष्टकृष्णे
त्राहि त्राहि ग्रहीतॄंस्तव भवहवराख्यां सदा सत्यसन्धे ।
भूयो भूयोऽभयोक्तिर्वितर तव तनुर्येह मोहप्रहर्त्री
सा मे कामेश मेध्या मनसि नयनयोरादस्तु दत्त ॥ ५१॥

(गोमूत्रिकाबन्ध)
कृष्णां यो वृणुते भक्तः पदं यायान्निरन्तरम्
तृष्णां यो वृणुतेऽभक्तः खेदं यायान्निरन्तरम् ॥ ५२॥

कृष्णास्थप्रेरितमतिर्वासुदेवसरस्वती ।
कृष्णामस्तौदतः प्रीयान्नरसिंहसरस्वती ॥

 इति श्रीवासुदेवानन्दसरस्वतीविरचिता कृष्णालहरी समाप्ता ।

You may also like