Share

अदितिकृतं श्रीकृष्णस्तोत्रम्

by Vaidik Marg · August 24, 2025

अदितिकृतं श्रीकृष्णस्तोत्रम्

अदितिरुवाच ।
नमस्ते पुण्डरीकाक्ष भक्तानामभयङ्कर ।
सनातनात्मन्भूतात्मन्सर्वात्मन्भूतभावन ॥ ६॥

प्रणेतर्मनसो बुद्धेरिन्द्रियाणां गुणात्मक ।
सितदीर्घादिनिःशेषकल्पनापरिवर्जित ॥ ७॥

जन्मादिभिरसंस्पृष्ट स्वप्नादिपरिवर्जित ।
सन्ध्यारात्रिरहर्भूमिर्गगनं वायुरम्बु च ॥ ८॥

हुताशनो मनो बुद्धिर्भूतादिस्त्वं तथाऽच्युत ।
सृष्टिस्थितिविनाशानां कर्ता कर्तृपतिर्भवान् ॥ ९॥

ब्रह्मविष्णुशिवाख्याभिरात्ममूर्तिभिरीश्वरः ।
मायाभिरेतद्व्याप्तं ते जगत्स्थावरजङ्गमम् ॥ १०॥

अनात्मन्यात्मविज्ञानं सा ते माया जनार्दन ।
अहं ममेति भावोऽत्र यया समुपजायते ॥ ११॥

संसारमध्ये मायायास्तवैतन्नाथ चेष्टितम् ।
यैः स्वधर्मपरैर्नाथ नरैराराधितो भवान् ॥ १२॥

ते तरन्त्यखिलामेतां मायामात्मविमुक्तये ।
ब्रह्माद्याः सकला देवा मुष्याः पशवस्तथा ॥ १३॥

विष्णुमायामहावर्ते मोहान्धतमसाऽऽवृताः ।
आराध्य त्वामभीप्सन्ते कामानात्मभवक्षये ॥ १४॥

पदे ते पुरुषा बद्धा मायया भगवंस्तव ।
मया त्वं पुत्रकामिन्या वैरिपक्षक्षयाय च ॥ १५॥

आराधितो न मोक्षाय मायाविलसितं हि तत् ।
कौपीनाच्छादनप्राया वाञ्छा कल्पद्रुमादपि ॥ १६॥

जायते यदपुण्यानां सोऽपराधः स्वदोषजः ।
तत्प्रसीदाखिलजगन्मायामोहकराव्यय ॥ १७॥

अज्ञातं ज्ञानसद्भाव भूतभूतेश नाशय ।
नमस्ते चक्रहस्ताय शार्ङ्गहस्ताय ते नमः ॥ १८॥

गदाहस्ताय ते विष्णो शङ्खहस्ताय ते नमः ।
एतत्पश्यामि ते रूपं स्थूलचिह्नोपशोभितम् ।
न जानामि परं यत्ते प्रसीद परमेश्वर ॥ १९॥

इति ब्रह्मपुराणे त्र्यधिकद्विशततमाध्यायान्तर्गतं
अदितिकृतं श्रीकृष्णस्तोत्रं समाप्तम् ।

You may also like