
अक्रूरकृतं श्रीकृष्णस्तोत्रम्
अक्रूर उवाच ।
नमः कारणरूपाय परमात्मस्वरूपिणे
सर्वेषामपि विश्वानामीश्वराय नमो नमः ।
पराय प्रकृतेरीश परात्परतराय च ॥ ५७॥
निर्गुणाय निरीहाय नीरूपाय स्वरूपिणे ।
सर्वदेवस्वरूपाय सर्वदेवेश्वराय च ॥ ५८॥
सर्वदेवाधिदेवाय विश्वादिभूतरूपिणे ।
असंश्येषु च विश्वेषु ब्रह्मविष्णुशिवात्मक ॥ ५९॥
स्वरूपायाऽऽदिबीजाय तदीशविश्वरूपिणे ।
नमो गोपाङ्गनेशाय गणेशेश्वररूपिणे ॥ ६०॥
नमः सुरगणेशाय राधेशाय नमो नमः ।
राधारमणरूपाय राधारूपधराय च ॥ ६१॥
राधाराध्याय राधायाः प्राणाधिकतराय च ।
राधासाध्याय राधाधिदेवप्रियतमाय च ॥ ६२॥
राधाप्राणाधिदेवाय विश्वरूपाय ते नमः ।
वेदस्तुतात्मवेदज्ञरूपिणे सर्ववेदिने ॥ ६३॥
वैदाधिष्ठातृदेवाय वेदबीजाय ते नमः ।
यस्य लोमसु विश्वानि चासङ्ख्यानि च नित्यशः ॥ ६४॥
महद्विष्णोरीश्वराय विश्वेशाय नमो नमः ।
स्वयं प्रकृतिरूपाय प्राकृताय नमू ॥ ६५॥
प्रकृतीश्वररूपाय प्रधानपुरूषाय च ।
इति श्रीब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे उत्तरे सप्ततितमाध्यायान्तर्गतं
अक्रूरकृतं श्रीकृष्णस्तोत्रं समाप्तम् ।
