उमामहेश्वरस्तोत्रम्
उमामहेश्वरस्तोत्रम् नमः शिवाभ्यां नवयौवनाभ्याम्परस्पराश्लिष्टवपुर्धराभ्याम् ।नगेन्द्रकन्यावृषकेतनाभ्याम्नमो नमः शङ्करपार्वतीभ्याम् ॥ १॥ नमः शिवाभ्यां सरसोत्सवाभ्याम्नमस्कृताभीष्टवरप्रदाभ्याम् ।नारायणेनार्चितपादुकाभ्यांनमो नमः शङ्करपार्वतीभ्याम् ॥ २॥ नमः शिवाभ्यां वृषवाहनाभ्याम्विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम्...
